Research Paper
SANSKRIT SAHITYE MANAWADHIKARAH
Author: PROF. MADHVI SHUKLA, NA, NA
PROFESSOR POLITICAL SCIENCE DEPARTMENT, SSSVS GOVERNMENT PG COLLEGE,CHUNAR, MIRZAPUR{ AFFILIATWD WITH MGKVP VARANASI}
Download PDF
मानवाधिकारः कुत्रापि परिभाषितो नास्ति। अस्यार्थः तैः अधिकारैः क्रियते ये मानवजातेः विकासाय मूलभूताः सन्ति, मानवस्य गरिम्णा सम्बद्धाः तस्य पोषणाय आवष्यकाष्च सन्ति। मानवाधिकाराः मानवस्य विषेषास्तित्वकाराणात् तैः सम्बद्धाः सन्ति, अत एव ते जन्मतः एव प्राप्ताः भवन्ति। तत्सम्पन्नताये जाते, लिंगस्य, धर्मस्य, भाषायाः, वर्णानां विचाराः राष्ट्रियतायाः बाधकाः न भवन्ति। मानवाधिकारः मूलाधिकारः आधारभूतो अधिकारः अन्तर्निहितोऽधिकारः नैसर्गिकंचश्चाधिकार (OR INALIENABLE) इत्यादि नामभिः व्यपदिष्यते। मानवाधिकारस्य सर्वमान्या विष्वव्यापिनी च कापि परिभाषा नास्ति। अत एव राष्ट्राणि इमं स्वसौविध्यानुसारं परिभाषन्ते। विष्वस्य विकसिताः देषाः मानवाधिकारस्य परिभाषां केवलं मनुष्यस्य राजनीतिकान् नागरिकां च अधिकारान् यावत् निर्धारितान् कुर्वन्ति। भारतेन साकं अन्ये विकासषीलाः देषाः मानवाधिकारे केवलं राजनीतिकम् आर्थिकं सामाजिक सांस्कृतिकं च आधारं सन्निवेषयन्ति। मानवाधिकारस्य परिभाषा सांस्कृतिकमूल्यान्तर्गतं कार्या इति चीनदेषस्य इस्लामदेषानां च मतम् अस्ति अर्थात् मानवाधिकारे मनुष्याणां सांस्कृतिकोऽधिकारः अपि सन्निवेषनीयः।